Home स्तोत्र

श्रीकालिकाष्टकम्

श्रीकालिकाष्टकम्
Written by admin

🌺|| श्रीकालिकाष्टकम् ||🌺
ध्यानम्
गलद्रक्तमुण्डावलीकण्ठमाला
महाघोररावा सुदंष्ट्रा कराला ।
विवस्त्रा श्मशानालया मुक्तकेशी
महाकालकामाकुला कालिकेयम् ॥ १ ॥

भुजे वामयुग्मे शिरोऽसिं दधाना
वरं दक्षयुग्मेऽभयं वै तथैव ।
सुमध्याऽपि तुङ्गस्तनाभारनम्रा
लसद्रक्तसृक्कद्वया सुस्मितास्या ॥ २ ॥

शवद्वन्द्वकर्णावतंसा सुकेशी
लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।
शवाकारमञ्चाधिरुढा शिवाभि-
श्चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥ ३ ॥

*स्तुतिः*
विरञ्च्यादिदेवास्त्रयस्ते गुणांस्त्रीन्
समाराध्य कालीं प्रधाना बभूवुः ।
अनादिं सुरादिं मखादिं भवादिं
स्वरुपं त्वदियं न विन्दन्ति देवाः ॥ ४ ॥

जगन्मोहनीयं तु वाग्वादिनीयं
सुहृत्पोषिणीशत्रुसंहारणीयम् ।
वचस्तम्भनीयं किमुच्चाटनीयं
स्वरुपं त्वदियं न विन्दन्ति देवाः ॥ ५ ॥

इयं स्वर्गदात्री पुनः कल्पवल्ली
मनोजांस्तु कामान् यथार्थं प्रकुर्यात् ।
तथा ते कृतार्था भवन्तीति नित्यं
स्वरुपं त्वदियं न विन्दन्ति देवाः ॥ ६ ॥

सुरापानमत्ता सुभक्तानुरक्ता
लसत्पूतचित्ते सदाविर्भवत्ते ।
जपध्यानपूजासुधाधौतपङ्का
स्वरुपं त्वदियं न विन्दन्ति देवाः ॥ ७ ॥

चिदानन्दकन्दं हसन् मन्दमन्दं
शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।
मुनीनां कवीनां हृदि द्योतयन्तं
स्वरुपं त्वदियं न विन्दन्ति देवाः ॥ ८ ॥

महामेघकाली सुरक्तापि शुभ्रा
कदाचित् विचित्राकृतिर्योगमाया ।
न बाला न वृद्धा न कामातुरापि
स्वरुपं त्वदियं न विन्दन्ति देवाः ॥ ९ ॥

क्षमस्वापराधं महागुप्तभावं
मया लोकमध्ये प्रकाशीकृतं यत् ।
तव ध्यानपूतेन चापल्यभावात्
स्वरुपं त्वदियं न विन्दन्ति देवाः ॥ १० ॥

*फलश्रुतिः*
यदि ध्यानयुक्तं पठेद् यो मनुष्य-
स्तदा सर्वलोके विशालो भवेच्च ।
गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः
स्वरुपं त्वदियं न विन्दन्ति देवाः ॥ ११ ॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकं सम्पूर्णम् ॥

About the author

admin

Leave a Comment

error: Content is protected !!